|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.85. अध्यायः 085
Mahabharata - Sabha Parva - Chapter Topics
भीषमद्रोणादीनां द्यूतसभाप्रवेशः॥ 1॥ द्यूतीपक्रमः॥ 2॥ युधिष्ठिरेण पणीकृतानां सर्ववस्तूनां शकुनिना अपहारः॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
उपोह्यमाने द्यूते तु राजानः सर्व एव ते।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः॥ 2-85-1(14720)
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः।
नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत॥ 2-85-2(14721)
ते द्वन्द्वशः पृथच्कैव सिंहग्रीवा महौजसः।
सिंहासनानि भूरिणी विचित्राणि च भेजिरे॥ 2-85-3(14722)
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः।
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम्॥ 2-85-4(14723)
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः।
प्रवर्तत महाराज सुहृद्द्यूतमनन्तरम्॥ 2-85-5(14724)
युधिष्ठिर उवाच॥ 2-85-6x(1560)
अयं बुहधनो राजन्सागरावर्तसम्भवः।
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः॥ 2-85-6(14725)
एतद्राजन्मम धनं प्रतिपाणोऽस्ति कस्तव।
येन मां त्वं महाराज धनेन प्रतिदीव्यसे॥ 2-85-7(14726)
दुर्योधन उवाच॥ 2-85-8x(1561)
सन्ति मे मणयश्चैव धनानि सुबहूनि च।
मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम्॥ 2-85-8(14727)
वैशम्पायन उवाच॥ 2-85-9x(1562)
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-85-9(14728)
युधिष्ठिर उवाच॥ 2-85-10x(1563)
मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे।
शकुने हन्त दीव्यामो ग्लहमानाः परस्परम्॥ 2-85-10(14729)
सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः।
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥ 2-85-11(14730)
वैशम्पायन उवाच॥ 2-85-12x(1564)
कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम्।
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम्॥ 2-85-12(14731)
युधिष्ठिर उवाच॥ 2-85-13x(1565)
अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः।
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः॥ 2-85-13(14732)
संह्रादनो राजरथो य इहास्मानुपावहत्।
जौत्रो रथवरः पुण्यो मेघसागरनिः स्वनः॥ 2-85-14(14733)
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः।
वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन्।
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया॥ 2-85-15(14734)
वैशम्पायन उवाच॥ 2-85-16x(1566)
एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-85-16(14735)
युधिष्ठिर उवाच॥ 2-85-17x(1567)
शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः॥ 2-85-17(14736)
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः।
मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः॥ 2-85-18(14737)
अनुसेवां चरन्तीमाः कुशला नृत्तसामसु।
स्नातकानाममात्यानां राज्ञां च मम शासनात्।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥ 2-85-19(14738)
वैशम्पायन उवाच॥ 2-85-20x(1568)
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-85-20(14739)
युधिष्ठिर उवाच। 2-85-21x(1569)
एतावन्ति च दासानां सहस्राण्युत सन्ति मे।
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा॥ 2-85-21(14740)
प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः।
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥ 2-85-22(14741)
वैशम्पायन उवाच॥ 2-85-23x(1570)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरभाषत॥ 2-85-23(14742)
युधिष्ठिर उवाच॥ 2-85-24x(1571)
सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल।
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः॥ 2-85-24(14743)
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि।
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः॥ 2-85-25(14744)
सर्वे च पुरभेत्तारो नवमेघनिभा गजाः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥ 2-85-26(14745)
वैशम्पायन उवाच॥ 2-85-27x(1572)
इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-85-27(14746)
युधिष्ठिर उवाच॥ 2-85-28x(1573)
रथास्तावन्त एवेमे हेमदण्डाः पताकिनः।
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः॥ 2-85-28(14747)
एकैको ह्यत्र लभते सहस्रपरमां भृतिम्।
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्।
एतद्राजन्म धनं तेन दीव्याम्यहं त्वया॥ 2-85-29(14748)
वैशम्पायन उवाच॥ 2-85-30x(1574)
इत्येवमुक्ते वचने कृतवैरो दुरात्मवान्।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-85-30(14749)
युधिष्ठिर उवाच॥ 2-85-31x(1575)
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः।
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने॥ 2-85-31(14750)
युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥ 2-85-32(14751)
वैशम्पायन उवाच॥ 2-85-33x(1576)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-85-33(14752)
युधिष्ठिर उवाच॥ 2-85-34x(1577)
रथानां शकटानां च श्रेष्ठानां चायुतानि मे।
युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा॥ 2-85-34(14753)
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः।
यथा समुदिता वीराः सर्वे वीरपराक्रमाः॥ 2-85-35(14754)
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान्।
षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥ 2-85-36(14755)
वैशम्पायन उवाच॥ 2-85-37x(1578)
एतच्छ्रत्वा व्यवसितो निकृति समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-85-37(14756)
युधिष्ठिर उवाच। 2-85-38x(1579)
ताम्रलोहैः परिवृता निधयो ये चतुः शताः।
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै॥ 2-85-38(14757)
जातरूपस्य मुख्यस्य नार्घो यस्य हि भारत।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥ 2-85-39(14758)
वैशम्पायन उवाच॥ 2-85-40x(1580)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभापतः॥ ॥ 2-85-40(14759)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चाशीतितमोऽध्यायः॥85 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-85-8 दुरोदरं पणम्॥ 2-85-11 भाण्डिन्यो मञ्जषाः॥ 2-85-17 कम्बवः शङ्खवलयानि। निष्पो वक्षोभूषणम्॥ 2-85-18 चतुष्षष्टिकलासु विशारदाः॥ 2-85-19 नृत्तसामसु नर्तने गीतिविशेषेषु च॥ 2-85-24 कृतपीडाः कृतभूषणाः॥ 2-85-25 ईषा लाङ्गलदण्डः। अष्टकरेणवः, अष्टहस्तिनीकाः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|